|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.211. अध्यायः 211
Mahabharata - Adi Parva - Chapter Topics
एकस्याः बहुभार्यात्वे शङ्कमानान्द्रुपदादीन्प्रति व्यासेन स्वस्वाभिप्रायकथनानुज्ञा॥ 1 ॥ द्रुपदादिभिः स्वस्वमते कथिते व्यासेनास्य विवाहस्य धर्म्यत्वकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-211-0x(1167)(9244)
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः।
प्रत्युथाय महात्मानं कृष्णं सर्वेऽभ्यवादयन्॥ 1-211-1(9245)
प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः।
आसने काञ्चने शुद्धे निषसाद महामनाः॥ 1-211-2(9246)
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः॥ 1-211-3(9247)
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते॥ 1-211-4(9248)
कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः।
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम्॥ 1-211-5(9249)
व्यास उवाच। 1-211-6x(1168)
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत्॥ 1-211-6(9250)
द्रुपद उवाच। 1-211-7x(1169)
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम॥ 1-211-7(9251)
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः।
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन॥ 1-211-8(9252)
ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति।
धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम्॥ 1-211-9(9253)
धृष्टद्युम्न उवाच। 1-211-10x(1170)
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ।
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन॥ 1-211-10(9254)
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन।
अधर्मो धर्म इति वा व्यवसायो न शक्यते॥ 1-211-11(9255)
कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते।
पञ्चानां महिषी कृष्णा भवत्विति कथंचन॥ 1-211-12(9256)
युधिष्ठिर उवाच। 1-211-13x(1171)
न मे वागनृतं प्राह नाधर्मे धीयते मतिः।
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन॥ 1-211-13(9257)
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी।
ऋषीनध्यासितवती सप्त धर्मभृतां वरा॥ 1-211-14(9258)
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः।
संगताभूद्दश भ्रातॄनकेन्म्नः प्रचेतसः॥ 1-211-15(9259)
गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम।
गुरूणां चैव सर्वेषां माता परमको गुरुः॥ 1-211-16(9260)
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम॥ 1-211-17(9261)
कुन्त्युवाच। 1-211-18x(1172)
एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः।
भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम्।
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम्॥ 1-211-18(9262)
व्यास उवाच। 1-211-19x(1173)
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम्॥ 1-211-19(9263)
यथाऽयं विहितो धर्मो यतश्चायं सनातनः।
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः॥ 1-211-20(9264)
वैशम्पायन उवाच। 1-211-21x(1174)
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः।
करे गृहीत्वा राजानं राजवेश्म समाविशत्॥ 1-211-21(9265)
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः।
विविशुस्तेऽपि तत्रैव प्रतीक्षन्ते स्म तावुभौ॥ 1-211-22(9266)
ततो द्वैपायनस्त्समै नरेन्द्राय महात्मने।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता॥ 1-211-23(9267)
`यथा च ते ददुश्चैव राजपुत्र्याः पुरा वरम्।
धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः॥' ॥ 1-211-24(9268)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि एकादशाधिकद्विशततमोऽध्यायः॥ 211 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|